|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.35. अध्यायः 035
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
धृतराष्ट्रधिष्ठिरादिभिर्ष्यासप्रसादोज्जीवितैर्हतपूर्वबन्धुभिः सह सँल्लापादिना यावद्रात्रिसुखविहरणम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम्।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः॥ 16-35-1(98100)
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्।
संहृष्टमनसः सर्वे देवलोक इवामराः॥ 16-35-2(98101)
पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः॥ 16-35-3(98102)
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः॥ 16-35-4(98103)
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन्॥ 16-35-5(98104)
परस्परं समागम्य योधास्ते भरतर्षभ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः॥ 16-35-6(98105)
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह॥ 16-35-7(98106)
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः॥ 16-35-8(98107)
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्॥ 16-35-9(98108)
परस्परं समागम्य योधानां भरतर्षभ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्॥ 16-35-10(98109)
`देवलोकं गता ये च ये च ब्रह्मसदो गताः।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः॥ 16-35-11(98110)
तथा वैवस्वतं लोकं ये च यक्षानुपागताः।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान्॥ 16-35-12(98111)
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः।
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः॥' 16-35-13(98112)
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं॥ 16-35-14(98113)
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्॥ 16-35-15(98114)
अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम्।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे॥ 16-35-16(98115)
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्॥ 16-35-17(98116)
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्॥ 16-35-18(98117)
विचित्रगतयः सर्वे यानवाप्यामरैः सह।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः॥ 16-35-19(98118)
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः।
धर्मसीलो महातेजाः कुरूणां हितकृतदा।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः। 16-35-20(98119)
यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः॥ 16-35-21(98120)
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्॥ 16-35-22(98121)
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते॥ 16-35-23(98122)
एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्॥ 16-35-24(98123)
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा॥ 16-35-25(98124)
ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे॥ 16-35-26(98125)
यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः॥ 16-35-27(98126)
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि॥ 16-35-28(98127)
`ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः।
बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम्॥' 16-35-29(98128)
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः।
इष्टबान्धवसंयोगमनायासमनामयम्॥ 16-35-30(98129)
यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्॥ 16-35-31(98130)
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः॥ 16-35-32(98131)
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः।
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम्॥ 16-35-33(98132)
`पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः।
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा॥' ॥ 16-35-34(98133)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः॥ 35 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|